Veda Atlas · Rigveda · 10552 mantras

Veda Atlas

Search every Rigveda mantra by word, deity, root, meaning or number. Analysed mantras show two readings side by side: the traditional one, and ours, built from sound and roots up.

RV 1.164.6Vishvedevah · Aucathyo Dirghatamah · triṣṭup
अचि॑कित्वाञ्चिकि॒तुष॑श्चि॒दत्र॑ क॒वीन् पृ॑च्छामि वि॒द्मने॒ न वि॒द्वान् । वि यस्त॒स्तम्भ॒ षळि॒मा रजां॑स्य॒जस्य॑ रू॒पे किमपि॑ स्वि॒देक॑म्
RV 1.164.7Vishvedevah · Aucathyo Dirghatamah · triṣṭup
इ॒ह ब्र॑वीतु॒ य ई॑म॒ङ्ग वेदा॒स्य वा॒मस्य॒ निहि॑तं प॒दं वेः । शी॒र्ष्णः क्षी॒रं दु॑ह्रते॒ गावो॑ अस्य व॒व्रिं वसा॑ना उद॒कं प॒दापु॑:
RV 1.164.8Vishvedevah · Aucathyo Dirghatamah · triṣṭup
मा॒ता पि॒तर॑मृ॒त आ ब॑भाज धी॒त्यग्रे॒ मन॑सा॒ सं हि ज॒ग्मे । सा बी॑भ॒त्सुर्गर्भ॑रसा॒ निवि॑द्धा॒ नम॑स्वन्त॒ इदु॑पवा॒कमी॑युः
RV 1.164.9Vishvedevah · Aucathyo Dirghatamah · triṣṭup
यु॒क्ता मा॒तासी॑द् धु॒रि दक्षि॑णाया॒ अति॑ष्ठ॒द् गर्भो॑ वृज॒नीष्व॒न्तः । अमी॑मेद् व॒त्सो अनु॒ गाम॑पश्यद् विश्वरू॒प्यं॑ त्रि॒षु योज॑नेषु
RV 1.164.10Vishvedevah · Aucathyo Dirghatamah · triṣṭup
ति॒स्रो मा॒तॄस्त्रीन् पितॄन् बिभ्र॒देक॑ ऊ॒र्ध्वस्त॑स्थौ॒ नेमव॑ ग्लापयन्ति । म॒न्त्रय॑न्ते दि॒वो अ॒मुष्य॑ पृ॒ष्ठे वि॑श्व॒विदं॒ वाच॒मवि॑श्वमिन्वाम्
RV 1.164.11Vishvedevah · Aucathyo Dirghatamah · triṣṭup
द्वाद॑शारं न॒हि तज्जरा॑य॒ वर्व॑र्ति च॒क्रं परि॒ द्यामृ॒तस्य॑ । आ पु॒त्रा अ॑ग्ने मिथु॒नासो॒ अत्र॑ स॒प्त श॒तानि॑ विंश॒तिश्च॑ तस्थुः
RV 1.164.12Vishvedevah · Aucathyo Dirghatamah · jagatī
पञ्च॑पादं पि॒तरं॒ द्वाद॑शाकृतिं दि॒व आ॑हु॒: परे॒ अर्धे॑ पुरी॒षिण॑म् । अथे॒मे अ॒न्य उप॑रे विचक्ष॒णं स॒प्तच॑क्रे॒ षळ॑र आहु॒रर्पि॑तम्
RV 1.164.13Vishvedevah · Aucathyo Dirghatamah · triṣṭup
पञ्चा॑रे च॒क्रे प॑रि॒वर्त॑माने॒ तस्मि॒न्ना त॑स्थु॒र्भुव॑नानि॒ विश्वा॑ । तस्य॒ नाक्ष॑स्तप्यते॒ भूरि॑भारः स॒नादे॒व न शी॑र्यते॒ सना॑भिः
RV 1.164.14Vishvedevah · Aucathyo Dirghatamah · triṣṭup
सने॑मि च॒क्रम॒जरं॒ वि वा॑वृत उत्ता॒नायां॒ दश॑ यु॒क्ता व॑हन्ति । सूर्य॑स्य॒ चक्षू॒ रज॑सै॒त्यावृ॑तं॒ तस्मि॒न्नार्पि॑ता॒ भुव॑नानि॒ विश्वा॑
RV 1.164.15Vishvedevah · Aucathyo Dirghatamah · jagatī
सा॒कं॒जानां॑ स॒प्तथ॑माहुरेक॒जं षळिद् य॒मा ऋष॑यो देव॒जा इति॑ । तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒शः स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः
RV 1.164.16Vishvedevah · Aucathyo Dirghatamah · triṣṭup
स्त्रिय॑: स॒तीस्ताँ उ॑ मे पुं॒स आ॑हु॒: पश्य॑दक्ष॒ण्वान्न वि चे॑तद॒न्धः । क॒विर्यः पु॒त्रः स ई॒मा चि॑केत॒ यस्ता वि॑जा॒नात् स पि॒तुष्पि॒तास॑त्
RV 1.164.17Vishvedevah · Aucathyo Dirghatamah · triṣṭup
अ॒वः परे॑ण प॒र ए॒नाव॑रेण प॒दा व॒त्सं बिभ्र॑ती॒ गौरुद॑स्थात् । सा क॒द्रीची॒ कं स्वि॒दर्धं॒ परा॑गा॒त् क्व॑ स्वित् सूते न॒हि यू॒थे अ॒न्तः
RV 1.164.18Vishvedevah · Aucathyo Dirghatamah · triṣṭup
अ॒वः परे॑ण पि॒तरं॒ यो अ॑स्यानु॒वेद॑ प॒र ए॒नाव॑रेण । क॒वी॒यमा॑न॒: क इ॒ह प्र वो॑चद् दे॒वं मन॒: कुतो॒ अधि॒ प्रजा॑तम्
RV 1.164.19Vishvedevah · Aucathyo Dirghatamah · triṣṭup
ये अ॒र्वाञ्च॒स्ताँ उ॒ परा॑च आहु॒र्ये परा॑ञ्च॒स्ताँ उ॑ अ॒र्वाच॑ आहुः । इन्द्र॑श्च॒ या च॒क्रथु॑: सोम॒ तानि॑ धु॒रा न यु॒क्ता रज॑सो वहन्ति
RV 1.164.20Vishvedevah · Aucathyo Dirghatamah · triṣṭup
द्वा सु॑प॒र्णा स॒युजा॒ सखा॑या समा॒नं वृ॒क्षं परि॑ षस्वजाते । तयो॑र॒न्यः पिप्प॑लं स्वा॒द्वत्त्यन॑श्नन्न॒न्यो अ॒भि चा॑कशीति
RV 1.164.21Vishvedevah · Aucathyo Dirghatamah · triṣṭup
यत्रा॑ सुप॒र्णा अ॒मृत॑स्य भा॒गमनि॑मेषं वि॒दथा॑भि॒स्वर॑न्ति । इ॒नो विश्व॑स्य॒ भुव॑नस्य गो॒पाः स मा॒ धीर॒: पाक॒मत्रा वि॑वेश
RV 1.164.22Vishvedevah · Aucathyo Dirghatamah · triṣṭup
यस्मि॑न् वृ॒क्षे म॒ध्वद॑: सुप॒र्णा नि॑वि॒शन्ते॒ सुव॑ते॒ चाधि॒ विश्वे॑ । तस्येदा॑हु॒: पिप्प॑लं स्वा॒द्वग्रे॒ तन्नोन्न॑श॒द्यः पि॒तरं॒ न वेद॑
RV 1.164.23Vishvedevah · Aucathyo Dirghatamah · jagatī
यद् गा॑य॒त्रे अधि॑ गाय॒त्रमाहि॑तं॒ त्रैष्टु॑भाद् वा॒ त्रैष्टु॑भं नि॒रत॑क्षत । यद् वा॒ जग॒ज्जग॒त्याहि॑तं प॒दं य इत् तद् वि॒दुस्ते अ॑मृत॒त्वमा॑नशुः
RV 1.164.24Vishvedevah · Aucathyo Dirghatamah · triṣṭup
गा॒य॒त्रेण॒ प्रति॑ मिमीते अ॒र्कम॒र्केण॒ साम॒ त्रैष्टु॑भेन वा॒कम् । वा॒केन॑ वा॒कं द्वि॒पदा॒ चतु॑ष्पदा॒ ऽक्षरे॑ण मिमते स॒प्त वाणी॑:
RV 1.164.25Vishvedevah · Aucathyo Dirghatamah · triṣṭup
जग॑ता॒ सिन्धुं॑ दि॒व्य॑स्तभायद् रथंत॒रे सूर्यं॒ पर्य॑पश्यत् । गा॒य॒त्रस्य॑ स॒मिध॑स्ति॒स्र आ॑हु॒स्ततो॑ म॒ह्ना प्र रि॑रिचे महि॒त्वा