Veda Atlas · Rigveda · 10552 mantras
Veda Atlas
Search every Rigveda mantra by word, deity, root, meaning or number. Analysed mantras show two readings side by side: the traditional one, and ours, built from sound and roots up.
RV 1.159.5Dyavaprithivyau · Aucathyo Dirghatamah · jagatī
तद् राधो॑ अ॒द्य स॑वि॒तुर्वरे॑ण्यं व॒यं दे॒वस्य॑ प्रस॒वे म॑नामहे । अ॒स्मभ्यं॑ द्यावापृथिवी सुचे॒तुना॑ र॒यिं ध॑त्तं॒ वसु॑मन्तं शत॒ग्विन॑म्
RV 1.160.1Dyavaprithivyau · Aucathyo Dirghatamah · jagatī
ते हि द्यावा॑पृथि॒वी वि॒श्वश॑म्भुव ऋ॒ताव॑री॒ रज॑सो धार॒यत्क॑वी । सु॒जन्म॑नी धि॒षणे॑ अ॒न्तरी॑यते दे॒वो दे॒वी धर्म॑णा॒ सूर्य॒: शुचि॑:
RV 1.160.2Dyavaprithivyau · Aucathyo Dirghatamah · jagatī
उ॒रु॒व्यच॑सा म॒हिनी॑ अस॒श्चता॑ पि॒ता मा॒ता च॒ भुव॑नानि रक्षतः । सु॒धृष्ट॑मे वपु॒ष्ये॒ ३ न रोद॑सी पि॒ता यत् सी॑म॒भि रू॒पैरवा॑सयत्
RV 1.160.3Dyavaprithivyau · Aucathyo Dirghatamah · jagatī
स वह्नि॑: पु॒त्रः पि॒त्रोः प॒वित्र॑वान् पु॒नाति॒ धीरो॒ भुव॑नानि मा॒यया॑ । धे॒नुं च॒ पृश्निं॑ वृष॒भं सु॒रेत॑सं वि॒श्वाहा॑ शु॒क्रं पयो॑ अस्य दुक्षत
RV 1.160.4Dyavaprithivyau · Aucathyo Dirghatamah · jagatī
अ॒यं दे॒वाना॑म॒पसा॑म॒पस्त॑मो॒ यो ज॒जान॒ रोद॑सी वि॒श्वश॑म्भुवा । वि यो म॒मे रज॑सी सुक्रतू॒यया॒ ऽजरे॑भि॒: स्कम्भ॑नेभि॒: समा॑नृचे
RV 1.160.5Dyavaprithivyau · Aucathyo Dirghatamah · jagatī
ते नो॑ गृणा॒ने म॑हिनी॒ महि॒ श्रव॑: क्ष॒त्रं द्या॑वापृथिवी धासथो बृ॒हत् । येना॒भि कृ॒ष्टीस्त॒तना॑म वि॒श्वहा॑ प॒नाय्य॒मोजो॑ अ॒स्मे समि॑न्वतम्
RV 1.161.1Ribhavah · Aucathyo Dirghatamah · jagatī
किमु॒ श्रेष्ठ॒: किं यवि॑ष्ठो न॒ आज॑ग॒न् किमी॑यते दू॒त्यं १ कद् यदू॑चि॒म । न नि॑न्दिम चम॒सं यो म॑हाकु॒लो ऽग्ने॑ भ्रात॒र्द्रुण॒ इद् भू॒तिमू॑दिम
RV 1.161.2Ribhavah · Aucathyo Dirghatamah · jagatī
एकं॑ चम॒सं च॒तुर॑: कृणोतन॒ तद्वो॑ दे॒वा अ॑ब्रुव॒न् तद्व॒ आग॑मम् । सौध॑न्वना॒ यद्ये॒वा क॑रि॒ष्यथ॑ सा॒कं दे॒वैर्य॒ज्ञिया॑सो भविष्यथ
RV 1.161.3Ribhavah · Aucathyo Dirghatamah · jagatī
अ॒ग्निं दू॒तं प्रति॒ यदब्र॑वीत॒नाश्व॒: कर्त्वो॒ रथ॑ उ॒तेह कर्त्व॑: । धे॒नुः कर्त्वा॑ युव॒शा कर्त्वा॒ द्वा तानि॑ भ्रात॒रनु॑ वः कृ॒त्व्येम॑सि
RV 1.161.4Ribhavah · Aucathyo Dirghatamah · jagatī
च॒कृ॒वांस॑ ऋभव॒स्तद॑पृच्छत॒ क्वेद॑भू॒द् यः स्य दू॒तो न॒ आज॑गन् । य॒दावाख्य॑च्चम॒साञ्च॒तुर॑: कृ॒तानादित् त्वष्टा॒ ग्नास्व॒न्तर्न्या॑नजे
RV 1.161.5Ribhavah · Aucathyo Dirghatamah · jagatī
हना॑मैनाँ॒ इति॒ त्वष्टा॒ यदब्र॑वीच्चम॒सं ये दे॑व॒पान॒मनि॑न्दिषुः । अ॒न्या नामा॑नि कृण्वते सु॒ते सचाँ॑ अ॒न्यैरे॑नान्क॒न्या॒ ३ नाम॑भिः स्परत्
RV 1.161.6Ribhavah · Aucathyo Dirghatamah · jagatī
इन्द्रो॒ हरी॑ युयु॒जे अ॒श्विना॒ रथं॒ बृह॒स्पति॑र्वि॒श्वरू॑पा॒मुपा॑जत । ऋ॒भुर्विभ्वा॒ वाजो॑ दे॒वाँ अ॑गच्छत॒ स्वप॑सो य॒ज्ञियं॑ भा॒गमै॑तन
RV 1.161.7Ribhavah · Aucathyo Dirghatamah · jagatī
निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभि॒र्या जर॑न्ता युव॒शा ताकृ॑णोतन । सौध॑न्वना॒ अश्वा॒दश्व॑मतक्षत यु॒क्त्वा रथ॒मुप॑ दे॒वाँ अ॑यातन
RV 1.161.8Ribhavah · Aucathyo Dirghatamah · jagatī
इ॒दमु॑द॒कं पि॑ब॒तेत्य॑ब्रवीतने॒दं वा॑ घा पिबता मुञ्ज॒नेज॑नम् । सौध॑न्वना॒ यदि॒ तन्नेव॒ हर्य॑थ तृ॒तीये॑ घा॒ सव॑ने मादयाध्वै
RV 1.161.9Ribhavah · Aucathyo Dirghatamah · jagatī
आपो॒ भूयि॑ष्ठा॒ इत्येको॑ अब्रवीद॒ग्निर्भूयि॑ष्ठ॒ इत्य॒न्यो अ॑ब्रवीत् । व॒ध॒र्यन्तीं॑ ब॒हुभ्य॒: प्रैको॑ अब्रवीदृ॒ता वद॑न्तश्चम॒साँ अ॑पिंशत
RV 1.161.10Ribhavah · Aucathyo Dirghatamah · jagatī
श्रो॒णामेक॑ उद॒कं गामवा॑जति मां॒समेक॑: पिंशति सू॒नयाभृ॑तम् । आ नि॒म्रुच॒: शकृ॒देको॒ अपा॑भर॒त् किं स्वि॑त् पु॒त्रेभ्य॑: पि॒तरा॒ उपा॑वतुः
RV 1.161.11Ribhavah · Aucathyo Dirghatamah · jagatī
उ॒द्वत्स्व॑स्मा अकृणोतना॒ तृणं॑ नि॒वत्स्व॒पः स्व॑प॒स्यया॑ नरः । अगो॑ह्यस्य॒ यदस॑स्तना गृ॒हे तद॒द्येदमृ॑भवो॒ नानु॑ गच्छथ
RV 1.161.12Ribhavah · Aucathyo Dirghatamah · jagatī
स॒म्मील्य॒ यद् भुव॑ना प॒र्यस॑र्पत॒ क्व॑ स्वित् ता॒त्या पि॒तरा॑ व आसतुः । अश॑पत॒ यः क॒रस्नं॑ व आद॒दे यः प्राब्र॑वी॒त् प्रो तस्मा॑ अब्रवीतन
RV 1.161.13Ribhavah · Aucathyo Dirghatamah · jagatī
सु॒षु॒प्वांस॑ ऋभव॒स्तद॑पृच्छ॒तागो॑ह्य॒ क इ॒दं नो॑ अबूबुधत् । श्वानं॑ ब॒स्तो बो॑धयि॒तार॑मब्रवीत् संवत्स॒र इ॒दम॒द्या व्य॑ख्यत
RV 1.161.14Ribhavah · Aucathyo Dirghatamah · triṣṭup
दि॒वा या॑न्ति म॒रुतो॒ भूम्या॒ग्निर॒यं वातो॑ अ॒न्तरि॑क्षेण याति । अ॒द्भिर्या॑ति॒ वरु॑णः समु॒द्रैर्यु॒ष्माँ इ॒च्छन्त॑: शवसो नपातः